Adharam Madhuram Lyrics | अधरं मधुरं वदनं मधुरं भजन लिरिक्स


Adharam Madhuram Lyrics, अधरं मधुरं वदनं मधुरं भजन लिरिक्स | मधुराष्टकम लिरिक्स

Adharam Madhuram Vadanam Madhuram Lyrics | Madhurashtkam Lyrics

Adharam Madhuram Lyrics

अधरं मधुरं वदनं मधुरं

नयनं मधुरं हसितं मधुरम् ।

हृदयं मधुरं गमनं मधुरं

मधुराधिपतेरखिलं मधुरम् ॥ ॥

वचनं मधुरं चरितं मधुरं

वसनं मधुरं वलितं मधुरम् ।

चलितं मधुरं भ्रमितं मधुरं

मधुराधिपतेरखिलं मधुरम् ॥ ॥

Adharam Madhuram Lyrics

वेणुर्मधुरो रेणुर्मधुरः

पाणिर्मधुरः पादौ मधुरौ ।

नृत्यं मधुरं सख्यं मधुरं

मधुराधिपतेरखिलं मधुरम् ॥ ॥

गीतं मधुरं पीतं मधुरं

भुक्तं मधुरं सुप्तं मधुरम् ।

रूपं मधुरं तिलकं मधुरं

मधुराधिपतेरखिलं मधुरम् ॥ ॥

करणं मधुरं तरणं मधुरं

हरणं मधुरं रमणं मधुरम् ।

वमितं मधुरं शमितं मधुरं

मधुराधिपतेरखिलं मधुरम् ॥ ॥

गुञ्जा मधुरा माला मधुरा

यमुना मधुरा वीची मधुरा ।

सलिलं मधुरं कमलं मधुरं

मधुराधिपतेरखिलं मधुरम् ॥ ॥

गोपी मधुरा लीला मधुरा

युक्तं मधुरं मुक्तं मधुरम् ।

दृष्टं मधुरं शिष्टं मधुरं

मधुराधिपतेरखिलं मधुरम् ॥ ॥

गोपा मधुरा गावो मधुरा

यष्टिर्मधुरा सृष्टिर्मधुरा ।

दलितं मधुरं फलितं मधुरं

मधुराधिपतेरखिलं मधुरम् ॥ ॥

 

madhurashtakam

Adharam Madhuram Vadanam Madhuram Lyrics | Madhurashtkam Lyrics


Leave a Comment